(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    


॥ श्रीः ॥
6.72. अध्यायः 072
Mahabharata - Bhishma Parva - Chapter Topics
संकुलयुद्धवर्णनम् ॥ 1 ॥
Mahabharata - Bhishma Parva - Chapter Text

सञ्जय उवाच। 6-72-0x(4147)(41856)
शिखण्डी सह मत्स्येन विराटेन विशांपते।
भीष्ममाशु महेष्वासमाससाद सुदुर्जयम् ॥ 6-72-1(41857)
द्रोणं कृपं विकर्णं च महेष्वासं महाबलम् ।
राज्ञश्चान्यान्रणे शूरान्बहूनार्च्छद्धनंजयः ॥ 6-72-2(41858)
सैन्धवं च महेष्वासं सामात्यं सह बन्धुभिः ।
प्राच्यांश्च दाक्षिणात्यांश्च भूमिपान्भूमिपर्षभ ॥ 6-72-3(41859)
पुत्रं च ते महेष्वासं दुर्योधनममर्षणम् ।
दुःसहं चैव समरे भीमसेनोऽभ्यवर्तत ॥ 6-72-4(41860)
सहदेवस्तु शकुनिमुलूकं च महारथम् ।
पितापुत्रौ महेष्वासावभ्यवर्तत दुर्जयौ ॥ 6-72-5(41861)
युधिष्ठिरो महाराज गजानीकं महारथः ।
समवर्तत संग्रामे पुत्रेण निकृतस्तव ॥ 6-72-6(41862)
माद्रीपुत्रस्तु नकुलः शूरसंक्रन्दनो युधि ।
त्रिगर्तानां बलैः सार्धं समसञ्जत पाण्डवः ॥ 6-72-7(41863)
अभ्यवर्तन्त संक्रुद्धाः समरे साल्वकेकयान्।
सात्यकिश्चेकितानश्च सौभद्रश्च महारथः ॥ 6-72-8(41864)
धृष्टकेतुश्च समरे राक्षसश्च घटोत्कचः ।
नाकुलिश्च शतानीकः समरे रथपुङ्गवः ।
पुत्राणां ते रथानीकं प्रत्युद्याताः सुदुर्जयाः ॥ 6-72-9(41865)
सेनापतिरमेयात्मा धृष्टद्युम्नो महाबलः ।
द्रोणेन समरे राजन्समियायोग्रकर्मणा ॥ 6-72-10(41866)
एवमेते महेष्वासास्तावकाः पाण्डवैः सह ।
समेत्य समरे शूराः संप्राहारं प्रचक्रिरे ॥ 6-72-11(41867)
मध्यंदिनगते सूर्ये नभस्याकुलतां गते ।
कुरवः पाण्डवेयाश्च निजघ्नुरितरेतरम् ॥ 6-72-12(41868)
ध्वजिनो हेमचित्राङ्गा विचरन्तो रणाजिरे ।
सपताका रथा रेजुर्वैयाघ्रपरिवारणाः ॥ 6-72-13(41869)
समेतानां च समरे जिगीषूणां परस्परम् ।
बभूव तुमुलः शब्दः सिंहानामिव नर्दताम् ॥ 6-72-14(41870)
तत्राद्भुतमपश्यास संप्रहारं सुदारुणम्।
यदकुर्वन्रणे शूराः सृञ्जयाः कुरुभिः सह ॥ 6-72-15(41871)
नैव खं न दिशो राजन्न सूर्यं शत्रुतापन।
विदिशो वापि पश्यामः शरैर्मुक्तैः समन्ततः ॥ 6-72-16(41872)
शक्तीनां विमलाग्राणां तोमराणां तथास्यताम् ।
निस्त्रिंशानां च पीतानां नीलोत्पलनिभाः प्रभाः ॥ 6-72-17(41873)
कवचानां विचित्राणां भूषणानां प्रभास्तथा ।
खं दिशः प्रदिशश्चैव भासयामासुरोजसा ॥ 6-72-18(41874)
वपुर्भिश्च नरेन्द्राणां चन्द्रसूर्यसमप्रभैः ।
विरराज तदा राजंस्तत्रतत्र रणाङ्गणम् ॥ 6-72-19(41875)
रथसङ्घा नरव्याघ्राः समायान्तश्च संयुगे।
विरेजुः समरे राजन्ग्रहा इव नभस्तले ॥ 6-72-20(41876)
भीष्मस्तु रथिनां श्रेष्ठो भीमसेनं महाबलम् ।
अवारयत संक्रुद्धः सर्वसैन्यस्य पश्यतः ॥ 6-72-21(41877)
ततो भीष्मविनिर्मुक्ता रुक्मपुङ्खाः शिलाशिताः।
अभ्यङ्गन्तमरे भीमं तैलघौताः सुतेजनाः ॥ 6-72-22(41878)
तस्य शक्तिं महावेगं भीमसेनो महाबलः ।
क्रुद्धाशीविषसंकाशं प्रेषयामास भारत ॥ 6-72-23(41879)
तामापतन्तीं सहसा रुक्मदण्डं दुरासदाम्।
चिच्छेद समरे भीष्मः शरैः सन्नतपर्वभिः ॥ 6-72-24(41880)
ततोऽपरेण भल्लेन पीतेन निशितेन च।
कार्मुकं भीमसेनस्य द्विधा चिच्छेद भारत ॥ 6-72-25(41881)
अपास्य तु धनुश्छिन्नं भीमसेनो महाबलः ।
शरैर्बहुभिरानर्च्छद्भीष्मं शान्तनवं युधि ॥ 6-72-26(41882)
सात्यकिस्तु ततस्तूर्णं भीष्ममासाद्य संयुगे ।
आकर्णप्रहितैस्त्रीक्ष्णैर्निशितैस्तिग्मतेजनैः ॥ 6-72-27(41883)
शरैर्बहुभिरानर्च्छत्पितरं ते जनेश्वर ।
ततः संधाय वै तीक्ष्णं शरं परमदारुणम् ॥ 6-72-28(41884)
वार्ष्णेयस्य रथाद्भीष्मः पातयामास सारथिम्।
तस्याश्वाः प्रद्रुता राजन्निहते रथसारथौ ॥ 6-72-29(41885)
तेन तेनैव धावन्ति मनोमारुतरंहसः।
ततः सर्वस्य सैन्यस्य निःस्वनस्तुमुलोऽभवत् ॥ 6-72-30(41886)
हाहाकारश्च संजज्ञे पाण्डवानां महात्मनाम् ।
अभ्यद्रवत गृह्णीत हयान्यच्छत धावत ॥ 6-72-31(41887)
इत्यासीत्तुमुलः शब्दो युयुधानरथं प्रति ।
एतस्मिन्नेव काले तु भीष्मः शान्तनवस्तदा ॥ 6-72-32(41888)
न्यहनत्पाण्डवीं सेनामासुरीमिव वृत्राहा ।
ते वध्यमाना भीष्मेण पाञ्चालाः सोमकैः सह ।
स्थिरां युद्धे मतिं कृत्वा भीष्ममेवाभिदुद्रुवुः ॥ 6-72-33(41889)
धृष्टद्युम्नमुखाश्चापि पार्थाः शान्तनवं रणे।
अभ्यधावञ्जिगीषन्तस्तव पुत्रस्य वाहिनीम् ॥ 6-72-34(41890)
तथैव कौरवा राजन्भीष्मद्रोणपुरोगमाः।
अभ्यधावन्त वेगेन ततो युद्धमवर्तत ॥ ॥ 6-72-35(41891)

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि पञ्चमदिवसयुद्धे द्विसप्ततितमोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-72-18 ओजसा स्वप्रभावेण ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.